वांछित मन्त्र चुनें

य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः । यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥

अंग्रेज़ी लिप्यंतरण

ya ugraḥ sann aniṣṭṛtaḥ sthiro raṇāya saṁskṛtaḥ | yadi stotur maghavā śṛṇavad dhavaṁ nendro yoṣaty ā gamat ||

पद पाठ

यः । उ॒ग्रः । सन् । अनिः॑ऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः । यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒णव॑त् । हव॑म् । न । इन्द्रः॑ । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥ ८.३३.९

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:8» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:9